|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.119. अध्यायः 119
Mahabharata - Adi Parva - Chapter Topics
धृतराष्ट्रविवाहार्थं भीष्मविदुरसंवादः॥ 1 ॥ धृतराष्ट्रस्य गान्धार्या विवाहः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
भीष्म उवाच। 1-119-0x(715)(5274)
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्।
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्॥ 1-119-1(5275)
रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः।
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्॥ 1-119-2(5276)
मया च सत्यवत्या च कृष्णेन च महात्मना।
समवस्थापित भूयो युष्मासु कुलतन्तुषु॥ 1-119-3(5277)
तच्चैतद्वर्धते भूयः कुलं सागरवद्यथा।
तथा मया विधातव्यं त्वया चैव न संशयः॥ 1-119-4(5278)
श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः।
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च॥ 1-119-5(5279)
कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः।
उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः॥ 1-119-6(5280)
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर।
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे॥ 1-119-7(5281)
विदुर उवाच। 1-119-8x(716)
भवान्पिता भावन्माता भवान्नः परमो गुरुः।
तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्॥ 1-119-8(5282)
वैशम्पायन उवाच। 1-119-9x(717)
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्।
आराध्य वरदं देवं भगनेत्रहरं हरम्॥ 1-119-9(5283)
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा।
इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः॥ 1-119-10(5284)
ततो गान्धारराजस्य प्रेषयामास भारत।
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा॥ 1-119-11(5285)
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः।
ददै तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्॥ 1-119-12(5286)
गान्धारी त्वथ शुश्राव धृतराष्ट्रमचक्षुषम्।
आत्मानं दिप्सितं चास्मै पित्रा मात्रा च भारत॥ 1-119-13(5287)
ततः सा पटमादाय कृत्वा बहुगुणं तदा।
बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा॥ 1-119-14(5288)
नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया।
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्॥ 1-119-15(5289)
स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्।
तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्।
भीष्मस्यानुमते चैव विवाहं समकारयत्॥ 1-119-16(5290)
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्।
पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः॥ 1-119-17(5291)
गान्धार्यपि वरारोहा शीलाचारविचिषेटितैः।
तुष्टिं कुरूणां सर्वेषां जनयामास भारत॥ 1-119-18(5292)
`गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम्।
अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत्॥ 1-119-19(5293)
सा दृष्टिविनिवृत्त्या हि भर्तुश्च समतां ययौ।
नहि सूक्ष्मेप्यतीचारे भर्तुः सा ववृते तदा॥ 1-119-20(5294)
वृत्तेनाराध्य तान्सर्वान्गुरून्पतिपरायणा।
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्॥ 1-119-21(5295)
तस्याः सहोदरीः कन्याः पुनरेव ददौ दश।
गान्धारराजः सुबलो भीष्मेण च वृतस्तदा॥ 1-119-22(5296)
सत्यव्रतां सत्यसेनां सुदेष्णां चापि संहिताम्।
तेजश्श्र्वां सुश्रवां च तथैव निकृतिं शुभाम्॥ 1-119-23(5297)
शंभ्वठां च दशार्णां च गान्धारीर्दश विश्रुताः।
एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः॥ 1-119-24(5298)
ततः शान्तनवो भीष्मो धानुष्कस्तास्ततस्ततः।
अददाद्धृतराष्ट्रस्य राजपुत्रीः परश्शतम्॥' ॥ 1-119-25(5299)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः॥ 119 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-119-5 यादवी यादवस्य कुन्तिभोजस्य अपत्यम्॥ 1-119-11 प्रेषयामास दूतमिति शेषः॥ 1-119-13 दित्सितं दातुमिष्टम्॥ 1-119-14 बहुगुणं बहुधागुणितम्॥ 1-119-15 नाभ्यसूयां पत्युरभिभवं न कुर्याम्॥ एकोनविंशत्यधिकशततमोऽध्यायः॥ 119 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|